(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.36. अध्यायः 036
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युयुद्धवर्णनम्॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-36-0x(4347)(46297)
सौभद्रस्तद्वचः श्रुत्वा धर्मराजस्य धीमतः।
अचोदयत यन्तारं द्रोणानीकाय भारत॥ 7-36-1(46298)
तेन सञ्चोद्यमानस्तु याहियाहीति सारथिः।
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः॥ 7-36-2(46299)
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः।
सम्प्रधार्य क्षणं बुद्ध्या ततस्त्वं योद्धुमर्हसि॥ 7-36-3(46300)
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः।
त्वं तु बालः स बलवान्सङ्ग्रामाणामकोविदः॥ 7-36-4(46301)
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत्।
सारथे कोन्वयं द्रोणः समग्रं क्षत्रमेव वा॥ 7-36-5(46302)
`व्यवसायो हि मे योद्धुं रणोत्सवसमुद्यतः'।
ऐरावतगतं शक्रं सहामरगणैरहम्॥ 7-36-6(46303)
अथवा रुद्रमीशानं सर्वभूतगणार्चितम्।
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः॥ 7-36-7(46304)
`यच्चैतत्पश्यसे सूत सयोधाश्वरथद्विपम्'।
तन्ममाद्य द्विषत्सैन्यं कलामर्हति षोडशीम्॥ 7-36-8(46305)
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज।
पितरं चार्जुनं युद्धे न भीर्मामुपयास्यति॥ 7-36-9(46306)
सञ्जय उवाच। 7-36-10x(4348)
एवमप्युच्यमानः स सारथिस्तं पुनः पुनः।
वीर ते तेन मा युद्धमिति सौभद्रमब्रवीत्'॥ 7-36-10(46307)
अभिमन्युश्च तां वाचं कदर्थीकृत्य सारथेः।
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम्॥ 7-36-11(46308)
ततः सन्नोदयामास हयानाशु त्रिहायनान्।
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान्॥ 7-36-12(46309)
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः।
द्रोणमभ्यद्रवन्राजन्महावेगा महाबलाः॥ 7-36-13(46310)
तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः।
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः॥ 7-36-14(46311)
सकर्णिकारप्रवरोच्छ्रितध्वजः
सुवर्णवर्माऽऽर्जुनिरर्जुनाद्वरः।
युयुत्सया द्रोणमुखान्महारथान्
समासदत्सिंहशिशुर्यथा द्विपान्॥ 7-36-15(46312)
ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे।
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधाविव॥ 7-36-16(46313)
शूराणां युध्यमानानां निघ्नतामितरेतरम्।
सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः॥ 7-36-17(46314)
प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे।
द्रोणस्य मिषतो व्यूहं भित्त्वा व्यचरदार्जुनिः॥ 7-36-18(46315)
`तदभेद्यमनाधृष्यं द्रोणानीकं सुदुर्जयम्।
भित्त्वार्जुनिरसम्भ्रान्तो विवेशाचिन्त्यविक्रमः'॥ 7-36-19(46316)
तं प्रविष्टं विनिघ्नन्तं शत्रुसङ्घान्महाबलम्।
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः॥ 7-36-20(46317)
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः।
हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निःस्वनैः॥ 7-36-21(46318)
घोरैर्हलहलाशब्दैर्मागास्तिष्ठैहि मामिति।
असावहममित्रेति प्रवदन्तो मुहुर्मुहुः॥ 7-36-22(46319)
बृंहितैः शिञ्जितैर्हासैः करनेमिस्वनैरपि।
सन्नादयन्तो वसुधामभिदुद्रुवुरार्जुनिम्॥ 7-36-23(46320)
तेषामापततां वीरः शीघ्रयोधी महाबलः।
क्षिप्रास्त्रो न्यवधीद्राजन्मर्मज्ञो मर्मभेदिभिः॥ 7-36-24(46321)
ते हन्यमाना विवशा नानालिङ्गैः शितैः शरैः।
अभिपेतुः सुबहुशः शलभा इव पावकम्॥ 7-36-25(46322)
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः।
सन्तंस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे॥ 7-36-26(46323)
बद्धगोधाङ्गुलित्राणान्सशरासनसायकान्।
सासिचर्माङ्कुशाभीषून्सतोमरपरश्वथान्॥ 7-36-27(46324)
सगदायोगुडप्रासान्सर्ष्टितोमरपट्टसान्।
सभिण्डिपालपरिघान्यशक्तिवरकम्पनान्॥ 7-36-28(46325)
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान्।
समुद्गरक्षेपणीयान्सपाशपरिघोपलान्॥ 7-36-29(46326)
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान्।
स़ञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः॥ 7-36-30(46327)
तैः स्फुरद्भिर्महाराज शुशुभे भूः सुलोहितैः।
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष॥ 7-36-31(46328)
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः।
सन्दष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु॥ 7-36-32(46329)
सचारुमुकुटोष्णीषैर्मणिरत्नविभूषितैः।
विनालनलिनाकारैर्दिवाकरशशिप्रभैः॥ 7-36-33(46330)
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः।
द्विषच्छिरोभिः पृथिवीं स वै तस्तार फाल्गुनिः॥ 7-36-34(46331)
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्।
वीषामुखान्वित्रिवेणून्न्यस्तदण्डकबन्धुरान्॥ 7-36-35(46332)
विजङ्घाकूबरांस्तत्र विनेमींश्र व्यरानपि।
विचक्रोपस्करोपस्थान्भग्नोपकरणानपि॥ 7-36-36(46333)
`समास्थितान्योधवरैर्दान्ताश्वान्साधुसारथीन्।
विपताकाध्वजच्छत्रान्वितूणीरायुधानपि॥ 7-36-37(46334)
प्रपातितोपस्तरणान्हतयोधान्सहस्रशः।
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत॥ 7-36-38(46335)
पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान्।
तूणान्वर्माण्यथो कक्ष्या ग्रैवेयांश्च सकम्बलान्॥ 7-36-39(46336)
घण्टाः शुण्डाविषाणाग्राञ्छत्रमालाः पदानुगान्।
शरैर्निशितधाराग्रैः शात्रवाणामशातयत्॥ 7-36-40(46337)
वनायुजान्पार्वतीयान्काम्भोजानथ बाह्लिकान्।
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः॥ 7-36-41(46338)
आरूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः।
विध्वस्तचामरमुखान्विप्रविद्धप्रकीर्णकान्॥ 7-36-42(46339)
निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्धनान्।
हतारोहांश्छिन्नघण्टान्क्रव्यादगणमोदकान्॥ 7-36-43(46340)
निकृत्तचर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान्।
निपातयन्नश्ववरांस्तावकान्स व्यरोचत।
एको विष्णुरिवाचिन्त्यं कृत्वा कर्म सुदुष्करम्॥ 7-36-44(46341)
तथा निर्माथितं तेन चतुरङ्गबलं महत्।
यथाऽसुरबलं घोरं त्र्यम्बकेन महौजसा॥ 7-36-45(46342)
कृत्वा कर्म रणेऽसह्यं परैरार्जुनिराहवे।
अभिनच्च पदात्योघांस्त्वदीयानेव सर्वशः॥ 7-36-46(46343)
एवमेकेन तां सेनां सौभद्रेण सितैः शरैः।
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम्॥ 7-36-47(46344)
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश।
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षिणः॥ 7-36-48(46345)
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये।
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः॥ 7-36-49(46346)
हतान्पुत्रान्पितॄन्भ्रातॄन्बन्धून्सम्बन्धिनस्तथा।
प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान्॥ ॥ 7-36-50(46347)

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे षट्त्रिंशोऽध्यायः॥ 36 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-36-16 विंशतिरिति व्यूहपर्यायः। तदुक्तं। विंशत्यङ्गतया व्यूहो विंशतिर्व्यपदिश्यते इति। विंशतेः पदे रक्षणे। पदं व्यवसितत्राणस्थानलक्ष्माङ्ग्रिवस्तुष्वित्यमरः। तं विशन्तं ततो यत्ता इति क। पाठः। ते विशन्तं मुदा युक्ता इति घ.ङ. पाठः॥ 5-36-21 क्ष्वेडितं ध्वनिविशेषः। उत्क्रुष्टमाह्वानम्। गार्जितं हन्यन्तां हन्यन्तामिति वचः॥ 5-36-29 कचग्रहोऽङ्कुशः॥ 5-36-36 उपस्थो रथक्रोडः॥ 5-36-43 यकृत्कालखण्डम्॥ 5-36-45 व्यङ्गं तव वलं महत् इति झ.पाठः॥ 5-36-36 षट्त्रिंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.